CTET DEC 2018 Paper 2 Language 2 Sanskrit Bhasha Questions and Answers Paper Part 3

Get unlimited access to the best preparation resource for CTET/Paper-2 : get questions, notes, tests, video lectures and more- for all subjects of CTET/Paper-2.

15. निम्नलिखितस्य कस्य उद्देश्यस्य अनुसारं भाषाशिक्षणस्य आवश्यकता न भवति?

A. आभ्यन्तरस्य (Lnner Voice) वाचनार्थं, श्रवणार्थञ्च

B. जीवनस्य विविधावश्यकतानां परिपूर्णार्थम्

C. जीवनस्य विविधदशानां ज्ञानार्थम्

D. भाषाबोधस्य (language comprehension) अध्ययनार्थम्

ANSWER: D

SOLUTION

भाषाया: अवबोधेन भाषाज्ञान सम्यक्

भवति । भाषाबोधस्य अध्ययनार्थम् उद्देश्यस्य

अनुसारं भाषाशिक्षणस्य आवश्यकता न भवति ।

16. निर्देश: अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उचितम् उत्तरं लिखत -

उत्सवे, व्यसने, दुर्भिक्षे, राष्ट्रविप्लवे, दैनन्दिनव्यवहारे च यः सहायतां करोति सः बन्धुः भवति । यदि विश्वे सर्वत्र एतादृशः

भावः भवेत् तदा विश्वबन्धुत्वं सम्भवति, परन्तु अधुना निखिले संसारे कलहस्य अशान्तेः च वातावरणम् अस्ति । मानवाः परस्परं न विश्वसन्ति। ते परस्य कष्टं स्वकीयं कष्टं न गणयन्ति अपि च समर्था: देशाः असमर्थान् देशान् प्रति उपेक्षाभावं प्रदर्शयन्ति, तेषाम् उपरि स्वकीयं प्रभुत्वं स्थापयन्ति ।संसारे सर्वत्र विद्वेषस्य, शत्रुताया: हिंसाया: च देश भावना दृश्यते ।देशानां विकासः अपि अवरूद्ध: भवति ।

इयं महती आवश्यकता वर्तते यत् एक: देशः अपूर्ण देशेन सह निर्मलेन हृदयेन बन्धुतायाः व्यवहारं कुर्यात् । विश्वस्य जनेषु इयं भावना आवश्यकी। ततः विकसिताविकसितदेशयो: मध्ये स्वस्था स्पर्धा भविष्यति ।सर्वे देशाः ज्ञानविज्ञानयोः क्षेत्रे मैत्रीभावनया सहयोगेन च समृध्दिं प्राप्तुं समर्थाः भविष्यन्ति ।

विश्वे सर्वत्र कीदृशः भावः भवेत्?

A. हिंसाभावः

B. विकासभावः

C. विश्वबन्धुत्वभावः

D. उपेक्षाभावः

ANSWER: C

SOLUTION

विश्वे सर्वत्र विश्वबन्धुत्वभावः भवेत् ।

प्रयुक्तगद्यांशे विश्वबन्धुत्वस्य तात्पर्यम् अखिलं संसारस्य जनै: सह बन्धुत्वस्य व्यवहारं करणीयम् इति ।

17. निखिले संसारे कलहस्य अशान्ते: या वातावरणस्य कारणम् -

A. विकासाभावः

B. व्यवहाराभावः

C. सहायता - अभाव:

D. विश्वासाभाव:

ANSWER: D

SOLUTION

निखिले संसारे कलहस्य अशान्ते: वा

वातावरणस्य कारणम् - विश्वासाभावः। येन कारणेन

जनेषु परस्परं विश्वासस्य अभाव: अस्ति ते सन्देहयुक्तया दृष्टया जनान् पश्यन्ति ।

18. बहुविषयेषु यः सहायतां करोति, सः भवति --

A. बन्धुः

B. सेवकः

C. मित्रम्

D. शत्रुः

ANSWER: A

SOLUTION

बहुविषयेषु यः सहायतां करोति, सः बन्धुः

भवति । उत्सवे, व्यसने, दुर्भिक्षे, राष्ट्रविप्लवे,

दैनन्दिनव्यवहारे च यः सहायतां करोति स: बन्धुः भवति ।

19. ज्ञानविज्ञानयोः क्षेत्रे समृध्दिं प्राप्तुं का भावना अपेक्षिता भवति?

A. विश्वबन्धुत्वभावना

B. मैत्रीभावना

C. स्पर्धाभावना

D. प्रभुत्वभावना

ANSWER: B

SOLUTION

ज्ञानविज्ञानयोः क्षेत्रे समृद्धिं प्राप्तुं

मैत्रीभावना अपेक्षिता भवति ।सर्वे: देशाः ज्ञान -

विज्ञानक्षेत्रे मैत्रीपूर्णभावनायाः सहयोगेन एव समृध्दिं

सामर्थ्यं च प्राप्नुवन्ति।

20. ‘एतादृशः’ इति पदं कस्मिन् गणे अन्तर्भवति?

A. क्रियाविशेषणे

B. क्रियायाम्

C. नामवाचके

D. सर्वनामि

ANSWER: D

SOLUTION

‘एतादृशः’ इति पदं सर्वनाम्नि अन्तर्भवति ।

एतादृश: एक: सर्वनाम शब्दः अस्ति । यतोहि अस्य प्रयोग: संज्ञाया: स्थाने अभवत् ।

21. ‘कुर्यात्’ इति पदं कस्मिन् लकारे प्रयुक्तम्?

A. लोट्

B. लङ्

C. लट्

D. लिङ्

ANSWER: D

SOLUTION

‘कुर्यात्’ इति पदं लिङ् लकारे प्रयुक्तम्

‘कृ’ धातोः रूपं लिङ् लकारे एतादृशं चलति -

कृ धातु (करना)

‘कुर्यात्’ इति पदं लिङ् लकारे प्रयुक्तम्

22. ‘सहयोग:’ शब्दस्य प्रर्याय: अस्ति -

A. आविष्कार:

B. गणनम्

C. योगाभ्यास:

D. सहकार:

ANSWER: D

SOLUTION

‘सहयोग:’ शब्दस्य पर्याय: सहकार:

अस्ति । सहयोगकरणस्य भावः सहकार: इति ।

23. संसारे सर्वत्र किं दृश्यते?

A. विद्वेषः

B. शत्रुता

C. हिंसा

D. उपर्युक्तं सर्वमपि

ANSWER: D

SOLUTION

संसारे सर्वत्र विद्वेषस्य शत्रुताया: हिंसाया:

च भावना दृश्यते । प्रयुक्त: गद्यांशानुसारम् इति ।

Developed by: