CTET DEC 2018 Paper 2 Language 2 Sanskrit Bhasha Questions and Answers Paper Part 4

Get unlimited access to the best preparation resource for CTET/Paper-2 : get questions, notes, tests, video lectures and more- for all subjects of CTET/Paper-2.

24. निर्देश: अधोलिखितं गद्याशं पठित्वा प्रश्नानाम् उचिततमम् उत्तरं चित्वा लिखत ।

विश्वस्य उपलब्धासु भाषासु संस्कृतभाषा प्राचीनतमाभाषास्ति । भाषेयम् अनेकानां भाषाणां जननी मता ।प्राचीनयो: ज्ञान विज्ञानयो: निधि: अस्यां सुरक्षित: ।संस्कृतस्य महत्वविषये केनापि कथितम् - “भारतस्यप्रतिष्ठे द्वे संस्कृतं संस्कृतिस्तथा” ।

इयं भाषा अतीव वैज्ञानिकी। केचन कथयन्ति यत्संस्कृतमेव सङ्गणकस्यकृते सर्वोतमा भाषा ।अस्या: वाङ्ममयं वेदै: पुराणै: नीतिशास्त्रेण चिकित्साशास्त्रदिभिश्च समृध्दमस्ति ।कालिदासादीनां विश्वकवीनां काव्यसौन्दर्यम् अनुपमम्। कौटिल्यरचितम् अर्थशास्त्रम् जगति प्रसिद्धम् अस्तिगणितशास्त्रे शून्यस्य प्रतिपादनं सर्वप्रथमम् आर्यभट्टः अकरोत् ।चिकित्साशास्त्रे चरकसुश्रुतयोः योगदानं विश्वप्रसिद्धम् । संस्कृते यानि अन्यानि शास्त्राणि विद्यन्ते तेषु वास्तुशास्त्रं , रसायनशास्त्रं खगोलविज्ञानम्, ज्योतिषशास्त्रम्, विमानशास्त्रम् इत्यादीनि उल्लेखनीयानि ।

संस्कृते विद्यमाना: सूक्तय: अभ्युदयाय प्रेरयन्ति ।यथा - सत्यमेव जयते, वसुधैव कुटुम्बकम्, विद्ययाऽमृतमश्नुते , योग: कर्मसु कौशलम् इत्यादय: । सर्वभूतेषु आत्मवत् व्यवहारं कर्तुं संस्कृतभाषा सम्यक् शिक्षयति ।

‘प्रतिष्ठे’ इति पदं कस्यां विभक्तौ अस्ति?

A. सप्तमी - एकवचने

B. सप्तमीद्विवचने

C. सम्बोधन - एकवचने

D. प्रथमाद्विवचने

ANSWER: D

SOLUTION

‘प्रतिष्ठे’ इति पदं प्रथमाद्विवचने विभक्तौ

अस्ति । प्रतिष्ठे इति शब्दस्य मूल अर्थ प्रतिष्ठाया रूपम्

इति अस्ति ।

25. ज्ञानविज्ञानयोः निधि: कस्यां सुरक्षित: ?

A. संस्कृतौ

B. चिकित्सायाम्

C. संस्कृतभाषायाम्

D. प्रतिष्ठायाम्

ANSWER: C

SOLUTION

ज्ञानविज्ञानयो: निधि: संस्कृतभाषायां

सुरक्षितः । संस्कृतभाषा देवानां भाषा अस्ति ।

26. ‘सूक्ति:’ शब्दस्य कोऽर्थ: ?

A. सुभाषितम्

B. ॠक्

C. मन्त्र:

D. पद्यम्

ANSWER: A

SOLUTION

‘सूक्ति:’ शब्दस्य सुभाषितम् अर्थ: ।

सुभाषितस्य अर्थ: भवति- ′ सुन्दर वचन या कथन ।

27. कस्मिन् शास्त्रे चरकसुश्रुतयोः योगदानं विश्वप्रसिद्धम्?

A. विमानशास्त्रे

B. चिकित्साशास्त्रे

C. गणितशास्त्रे

D. वास्तुशास्त्रे

ANSWER: B

SOLUTION

चिकित्साशास्त्रे चरकसुश्रुतयोः योगदानं

विश्वप्रसिद्धम् । चरकमहोदयरचिता चरक -संहिता

संस्कृतस्य गौरवम् अस्ति ।

28. “भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिस्तथा” -

इति केनोक्तम्?

A. विश्वनाथेन

B. दण्डिना

C. कालिदासेन

D. केनापि

ANSWER: D

SOLUTION

प्रयुक्त गद्यांशानुसारं - संस्कृत महत्वविषये केनापि कथितम् - “भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिस्तथा ।”

29. शिक्षयति चेत् तेन किं प्राप्यते?

A. भाषाज्ञानम्

B. समानता

C. आत्मज्ञानम्

D. व्यवहारज्ञानम्

ANSWER: B

SOLUTION

सर्वभूतेषु आत्मवत् व्यवहारं कर्तुं

संस्कृतभाषा शिक्षयति चेत् तेन समानता प्राप्यते ।

यतोहि संस्कृतभाषाया: मूलमंत्रमस्ति - ′ वसुधैव

कुटुम्बकम् ′ ।

30. ‘सङ्गणक:’ शब्दस्य कोऽर्थ: ?

A. गणितम् (Mathematics)

B. अबेकस् (Abacus)

C. केल्क्युलेटर (Calculator)

D. कम्प्यूटर (Computer)

ANSWER: D

SOLUTION

‘सङ्गणक:’ शब्दस्य कम्प्यूटर अर्थमस्ति ।

आधुनिक युगे सङ्गणक: अतीव महत्वपूर्ण: अस्ति ।

Developed by: