CTET DEC 2019: Paper 1 Sanskrit Bhasha Questions and Answers Paper Part 1

Get unlimited access to the best preparation resource for CTET/Paper-1 : get questions, notes, tests, video lectures and more- for all subjects of CTET/Paper-1.

1. निर्देश: अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं चित्वा लिखित् (1 - 8) -

वृद्ध: पिता स्वपुत्रान् कृषिकर्मण: सञ्चालनाय भूयोभूय: प्रेरयति। किन्तु सर्वे अपि अरसा: पुत्रदा: न श्रृण्वन्ति ।एकलः स वार्धक्यजनितेन रोगेण ग्रस्त: शय्यासीनोजात: । स: कलहायमानेषु पुत्रेषु सङ्घबद्धताया: महत्त्वं बोधनाय उपायमचिन्तयत्।

सर्वानपि पुत्रान् आहूय स एकस्मै सुबद्धं दण्डचतुष्टयं दत्वा अवदत् _त्वमेनं भञ्जय। स कथमपि भङ्क्तुं नाशक्नोत्।

तथा अपर: पुत्र: तथैव आदिष्ट: । सोअपि तद्दण्डचतुष्टयं भङ्क्तुं समर्थो न जात: । इयमेव दशा अपरद्वयो: पुत्रयो: अपि अभवत्। तथा वृद्धः पिता सुबद्धं दण्डचतुष्टयं निर्बध्य एकैकं दण्डं पुत्रेभ्य: दत्तवान् ।तं दण्डं त्रोटयितुं स सर्वानपि आदिष्टवान् । सर्वे पुत्रा: स्वस्वहस्तस्थितं दण्डं भङ्क्तुं समर्था: अभवन् । तथा पिता कथितवान् यदि यूयं पृथक् पृथक् तिष्ठथ तथा कश्चित् शत्रु: युष्मान् एकैकान् विनाशयिष्यति । यदि यूयं सर्वे मिलित्वा सुबद्धा: तिष्ठथ तथा को अपि बाह्यजन: युष्मान् विनाशयितुं समर्थ: न भविष्यति । तस्मात् दिवसात् सर्वे अपि चत्वार: पुत्रा: स्वस्वविचारान् त्यक्त्वा परस्परं मिलित्वा गृहे अवसन् । पितरं च सेवया स्वस्थम् अकुर्वन्।

अधोलिखतेषु पदेषु क्त्वा प्रत्ययान्तपदं चिनुत

A. द्रष्टुम्

B. दत्वा

C. अनुशासनं

D. आधार

ANSWER: B

SOLUTION

एतेषु पदेषु दत्त्वा पदं क्त्वा प्रत्ययान्तपदम् अस्ति। अत्र क्त्वा प्रत्यये त्वा शेषः भवति ।

2. पुत्रेभ्य: इति पदे अनुच्छेदानुसारेण का विभक्ति: ?

A. द्वितीया

B. तृतीया

C. चतुर्थी

D. प्रथमा

ANSWER: C

SOLUTION

पुत्रेभ्यः इति पदे अनुच्छेदानुसारेण चतुर्थी विभक्तिः बहुवचनरूपम् अस्ति ।

3. सुबद्धं दण्डचतुष्टयं कथं कृत्वा एकैकं दण्डं पिता पुत्रेभ्य: अयच्छत्?

A. त्वगपवार्य

B. जलेन अभिसिञ्च्य

C. नीराजनं कृत्वा

D. निर्बन्ध्य

ANSWER: D

SOLUTION

सुबद्धं दण्डचतुष्टयं निर्बन्ध्यं कृत्वा एकैकं दण्डं पिता पुत्रेभ्यः अयच्छत् ।

गद्यांशानुसारं अनेन प्रकारेण पिता दण्डं पुत्रेभ्यः दत्तवान् ।

4. यूयम् इति पदं कस्मिन् पुरुषे अस्ति?

A. मध्यम पुरुषे

B. उत्तम पुरुषे

C. वृद्धपुरुषे

D. प्रथम पुरुषे

ANSWER: A

SOLUTION

यूयम् इति पदं मध्यमपुरुषे अस्ति ।

मध्यमपुरुषः

त्वम् युवाम् यूयम् ।

5. “गृहीत्वा” इति पदस्य विपरीतार्थकपदम् अनुच्छेदेअस्मिन् प्रयुक्त: । तच्चित्वा लिखत

A. द्रष्ट्वा

B. संहृत्य

C. आदाय

D. त्यक्त्वा

ANSWER: D

SOLUTION

गृहीत्वा इति पदस्य विपरीतार्थकपदम् त्यक्त्वा इति प्रयुक्तम् अस्ति ।

अत्र एतयोः अर्थ: विपरीतार्थक: विलोम: च अस्ति ।

6. स्वपुत्रान् भूयोभूय: क: प्रेरयति?

A. वृद्ध: पिता

B. भ्राता

C. मित्रम्

D. माता

ANSWER: A

SOLUTION

स्वपुत्रान् वृद्ध: पिता भूयोभूयः प्रेरयति ।

गद्यांशानुसारं वृद्ध: पिता भूयोभूयः स्वपुत्रान् प्रेरयति ।

7. ‘आह्वानं कृत्वा’ इत्यर्थ क: शब्द: अनुच्छेदेअस्मिन् प्रयुक्त: ?

A. आहूय

B. आज्ञापयत्

C. अधावत्

D. आदिशत्

ANSWER: A

SOLUTION

आह्वानं कृत्वा इत्यर्थे आहूय शब्द: अनुच्छेदे प्रयुक्तः अस्ति ।

8. अधोलिखितेषु पदेषु तुमुन् प्रत्ययान्तपदं चिनुत:

A. पीत्वा

B. भङ्क्तुम्

C. लिखित्वा

D. भुक्त्वा

ANSWER: B

SOLUTION

एतेषु पदेषु भङ्क्तुम् इति पदं तुमुन् प्रत्ययान्तपदम् अस्ति । तुमुन् प्रत्यये तुम् इति शेषः भवति ।

Developed by: