CTET DEC 2019: Paper 1 Sanskrit Bhasha Questions and Answers Paper Part 10
Get unlimited access to the best preparation resource for CTET/Paper-2 : get questions, notes, tests, video lectures and more- for all subjects of CTET/Paper-2.
9. निर्देश: अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं चित्वा लिखत- (9 - 15)
पुरा वाल्मीकि: नाम एकः ऋषिः आसीत्। एकदा स: स्नातुं तमसातीरमगच्छत्। मार्गे स: व्याधेन विद्धम् एकं क्रौञ्च पक्षिणमपश्यत् । सहचरस्य वियोगेन व्याकुलिताया: क्रौञ्च्या: उच्चैः रोदनम् अश्रृणोत्। क्रौञ्च्या: विलापं श्रुत्वा शोकम् अभवत् ।क्रौञ्चीक्रन्दनात् जात: ऋषे: शोक: श्लोकरूपेण तस्य मुखात् एवं निरगच्छत्-
मा निषाद। प्रतिष्ठां त्वमगम: शाश्वती: समा: ।
यत्क्रौञ्चमिथुनादेकम् अवधी काममोहितम्।।
अयमेव श्लोक: लौकिकसाहित्यस्य आदिकाव्यरचना। तत: प्रभृति ऋषिरयं कविपदं प्राप्तवान्। ऋषे: कवित्वं विज्ञाय ब्रह्मा आकाशवाण्या आदिशत् ऋषे! कुरु रामायणं काव्यम्। तत्र रामचरितं वर्णय येन रामस्य पुण्यं चरित्रं विदित्वा जना: सन्मार्गस्य अनुसरणं कुर्यु: । अस्मिन् काव्ये (रामायणे) पितु: आज्ञापालनम्, भ्रातृस्नेह: , परोपकार: , दया, दीनरक्षा इत्यादीनि मानवताया: पोषकानि जीवनमूल्यानि वर्णितानि सन्ति।
‘ज्ञात्वा’ इति पदस्य समानार्थक शब्द: अनुच्छेदे अस्मिन् प्रयुक्त: । तच्चित्वा लिखत-
A. दृष्ट्या
B. विज्ञाय
C. विलोकनाय
D. श्रुत्वा
ANSWER: B
SOLUTION
‘ज्ञात्वा’ इति पदस्य समानार्थक शब्द: अनुच्छेदे अस्मिन् प्रयुक्त:- विज्ञाय ।
10. आदिशत् इति पदस्य कोsर्थ: भवति?
A. आदेशम् अकरोत्
B. काव्यम् अपाठयत्
C. वंशीम् अवादयत्
D. उपदेशं कृतवान्
ANSWER: A
SOLUTION
आदिशत् इति पदस्य अर्थ: भवति- आदेशम् अकरोत् ।
11. भो ऋषे! कुरु रामायणं काव्यम् इति क: अवदत्-?
A. मार्कण्डेय:
B. जाबालि:
C. ब्रह्मा
D. तारणीश:
ANSWER: C
SOLUTION
भो ऋषे! कुरु रामायणं काव्यम् इति ब्रह्मा अवदत् । गद्यांशानुसारं भो ऋषे! कुरु रामायणं काव्यम् इति ब्रह्मा अवदत् ।
12. ‘सन्ति’ इति पदे को धातु: वर्तते?
A. पठ्
B. गम्
C. अस्
D. भू
ANSWER: C
SOLUTION
सन्ति इति पदे अस् धातु वर्तते ।
13. वाल्मीकि: क: आसीत्?
A. ग्रामीण:
B. नागरिक:
C. खेचर:
D. ऋषि:
ANSWER: D
SOLUTION
वाल्मीकि: ऋषि: आसीत् । गद्यांशानुसारं वाल्मीकि: ऋषि: आसीत् ।
14. कीदृशं क्रौञ्चपक्षिणम् वाल्मीकि: मार्गे अपश्यत्?
A. व्याधेन विद्धम्
B. देवै: पूजितम्
C. जले तरन्
D. हसन्
ANSWER: A
SOLUTION
व्याधेन विद्धम् क्रौञ्चपक्षिणम् वाल्मीकि: मार्गे अपश्यत् । गद्यांशानुसारं व्याधेन विद्धम् क्रौञ्चपक्षिणम् वाल्मीकि: मार्गे अपश्यत् ।
15. ऋषे: शोक: केन रूपेण तस्य मुखात् निरगच्छत्?
A. गद्यरूपेण
B. श्लोकरूपेण
C. स्नेहरूपेण
D. गीतरूपेण
ANSWER: B
SOLUTION
ऋषे: शोक: श्लोकरूपेण तस्य मुखात् निरगच्छत् । गद्यांशानुसारं ऋषे: शोक: श्लोकरूपेण तस्य मुखात् निरगच्छत् ।