CTET DEC 2019: Paper 1 Sanskrit Bhasha Questions and Answers Paper Part 13
Get unlimited access to the best preparation resource for CTET/Paper-2 : get questions, notes, tests, video lectures and more- for all subjects of CTET/Paper-2.
1 निर्देश (1 - 9) : अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं चित्वा लिखित ।
विन्ध्यापर्वतमालाया: मध्ये चित्रकूट नाम तीर्थस्थलम् अस्ति । स्थानमिदं कोलाहलरहितं प्राकृतिकसौन्दर्यसंपन्नम् अस्ति। अत्र आगमनेन दर्शनेन च आनन्दानुभूति: जायते।चित्रकूटे सघनानि वनानि सन्ति। अत्र बहव: निर्झरा: सन्ति। सर्वत्रापि हरीतिमा राजते। चित्रकूटस्य धार्मिकं सांस्कृतिकं च महत्वं विद्यते ।कथ्यते यत् सीतालक्ष्मणाभ्यां सह वनवासकाले श्रीराम: एकादशवर्षाणि यावत् चित्रकूटे एव निवासं कृतवान्। महर्षि: अत्रि: साध्वी अनुसूया च अत्रैव तपस्यां कृत्वा आत्मज्ञानम् अलभेताम्। अत्र अनेकानि दर्शनीयानि स्थलानि सन्ति। रामघट्ट:- मन्दाकिन्या: तटे रामघट्ट: अस्ति। अत्र प्रायेण तीर्थयात्रिणां सम्मर्द: भवति। सायंकाले मन्दाकिन्या: नीराजनसमये मनोरमदृश्यं भवति ।रामघट्टात् नातिदूरमेव जानकीकुण्डम् अस्ति ।वनवासे सीता अत्रैव स्नानं करोति स्म। सघनवनमध्ये अनुसूयाश्रम: विद्यते। अत्र पक्षिणां कलरव: नीर्झरध्वनि: शीतलवायुश्च मनांसि रञ्जयन्ति।एतदेव मन्दाकिन्या: उद्गमस्थलम्।
जानकी कुण्डसमीपे एव विशाला शिला दर्शनीया वर्तते। चित्रकूटत: पञ्चकोशदूरम् नयनाभिरामं सौन्दर्ययुक्तं गुप्तगोदावरीस्थलं वर्तते।अत्र निरन्तरं जलं प्रवहति।तत्रैव हनुमानधारास्थलं वर्तते। अत्र उच्चस्थलात् जलं पतति।
अकरोत् इति पदस्य समानार्थकपदम् अनुच्छेदे अस्मिन् प्रयुक्त: तच्चित्वा लिखत
A. पीतवान्
B. कृतवान्
C. पूरितवान्
D. लिखितवान्
ANSWER: B
SOLUTION
अकरोत् इति पदस्य समानार्थकपदं कृतवान् इति अनुच्छेदे अस्मिन् प्रयुक्त: ।
2. का नाम साध्वी तपस्यां कृत्वा आत्मज्ञानम् अलभत्?
A. अपाला
B. प्रिया
C. अनुसूया
D. शकुन्तला
ANSWER: C
SOLUTION
अनुसूया नाम साध्वी तपस्यां कृत्वा आत्मज्ञानम् अलभत् । गद्यांशानुसारम् अनुसूया नाम साध्वी तपस्यां कृत्वा आत्मज्ञानम् अलभत् ।
3. ‘करोति’ इति पदे का धातु: वर्तते?
A. पठ्
B. लिख्
C हस्
D. कृ
ANSWER: D
SOLUTION
करोति इति पदे कृ धातु: वर्तते ।
4. ‘रञ्जयन्ति’ इति पदस्य एकवचने कि पदं भवति?
A. रञ्जयति
B. रञ्जयामि
C. रञ्जयसि
D. रञ्जयत:
ANSWER: A
SOLUTION
‘रञ्जयन्ति’ इति पदस्य एकवचने रञ्जयति इति पदं भवति ।
5. अनुसूयाश्रम: कस्या: नद्या: उद्गमस्थलम् अस्ति?
A. नर्मदाया:
B. गङ्गाया:
C. मन्दाकिन्या:
D. गोदावर्या:
ANSWER: C
SOLUTION
अनुसूयाश्रम: मन्दाकिन्याः नद्या: उद्गमस्थलम् अस्ति। गद्यांशानुसारम् अनुसूयाश्रम: मन्दाकिन्याः नद्या: उद्गमस्थलम् अस्ति ।
6. चित्रकूटत: कियद्दूरं गुप्तगोदावरी स्थलं वर्तते?
A. सप्तक्रोशमितम्
B. दशक्रोशमितम्
C. पञ्चविंशति क्रोशमितम्
D. पञ्चक्रोशमितम्
ANSWER: D
SOLUTION
चित्रकूटत: पञ्चक्रोशमितं दूरं गुप्तगोदावरीस्थलं वर्तते । गद्यांशानुसारं चित्रकूटत: पञ्चक्रोशमितं दूरं
गुप्तगोदावरीस्थलं वर्तते ।
7. चित्रकूटं नाम तीर्थस्थलं कुत्रास्ति?
A. विन्ध्यपर्वतमालामध्ये
B. पूर्वपर्वतमाला मध्ये
C. पश्चिमोत्तरपर्वतमालामध्ये
D. आरावली पर्वतमाला मध्ये
ANSWER: A
SOLUTION
चित्रकूटं नाम तीर्थस्थलं विन्ध्यपर्वतमालामध्ये अस्ति । गद्यांशानुसारं चित्रकूटं नाम तीर्थस्थलं विन्ध्यपर्वतमाला मध्ये अस्ति ।
8. अत्रागमनेन दर्शनेन च किं भवति?
A. क्लेषानुभूति:
B. पीड़ानुभूति:
C. ज्वरानुभूति:
D. आनन्दानुभूति:
ANSWER: D
SOLUTION
अत्रागमनेन दर्शनेन च आनन्दानुभूति: भवति। गद्यांशानुसारम् अत्रागमनेन दर्शनेन च आनन्दानुभूति: भवति।
9. सीतालक्ष्मणाभ्यां सह क: अत्र वासम् अकरोत्?
A. व्यास:
B. कालिदास:
C. श्रीराम:
D. वाल्मीकि:
ANSWER: C
SOLUTION
सीतालक्ष्मणाभ्यां सह श्रीराम: अत्र वासम् अकरोत् । गद्यांशानुसारं सीतालक्ष्मणाभ्यां सह श्रीराम: अत्र वासम् अकरोत्।