CTET DEC 2019: Paper 1 Sanskrit Bhasha Questions and Answers Paper Part 2

Get unlimited access to the best preparation resource for CTET/Paper-2 : get questions, notes, tests, video lectures and more- for all subjects of CTET/Paper-2.

9. निर्देश: अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेभ्य: उचिततमम् उत्तरं चित्वा लिखित (9 - 15) -

एकदा दरिद्रेभ्य: दातुं कम्बला: नृपेण चाणक्याय समर्पिता: । चाणक्यस्य उटजं नगरात् बहि: आसीत्। केचन चौरा: कम्बलान् अपहर्तुं चिन्तितवन्त: । ते रात्रौ चाणक्यस्य उटजं प्राविशन् । तत्र अतीव शैत्यम् आसीत्। चाणक्य: कटे सुप्त: आसीत् । पार्श्वे कम्बलानां राशि: आसीत्। चौराणाम् आश्चर्यम्। चाणक्य: कम्बलं विना निन्द्रां करोति।

चौरा: चौरकर्मं न अकुर्वन्। ते चाणक्यं प्रबोधितवन्त:- “महोदय! पार्श्वे कम्बलानां राशि। शीतकालोsपि वर्तते ।तथापि त्वं किमर्थं भूमौ शयनं करोषि?”

चाणक्य: उक्तवान् - कम्बला: दरिद्रेभ्य: दानाय नृपेण दत्ता: । श्व: प्रभाते वितरणं करिष्यामि। तेषां उपयोगार्थं नास्ति ममाधिकार: । अहंकार विरक्त: सदा तृप्त: । इति श्रुत्वा चौराणां लज्जा उत्पन्ना। अन्येषां जनानां वस्तुनाम् उपयोगेन अधर्म: भवति।

‘समीपे’ इति पदस्य समानार्थक शब्द: अनुच्छेदे अस्मिन् प्रयुक्त: ।तच्चित्वा लिखत-

A. अतिदूरे

B. पार्श्वे

C. अन्यस्मिन ग्रामे

D. दूरे

ANSWER: B

SOLUTION

समीपे इति पदस्य समानार्थकशब्द: पार्श्वे इति अस्ति । पार्श्वे इत्यस्य अर्थ: अपि समीपे एव भवति।

10. चाणक्य: कुत्र शयनं करोति स्म?

A. वृक्षे

B. जले

C. भूमौ

D. पर्यङ्के

ANSWER: C

SOLUTION

चाणक्य: भूमौ शयनं करोति स्म ।

गद्यांशानुसारं चाणक्य: सर्वदा भूमौ एव शयनं करोति स्म ।

11. दरिद्रेभ्य: इत्यस्मिन् पदे का विभक्ति अनुच्छेदमाधृत्य लिखत-

A. द्वितीया

B. सप्तमी

C. चतुर्थी

D. प्रथमा

ANSWER: C

SOLUTION

दरिद्रेभ्य: इति पदे चतुर्थी विभक्तिः प्रयुक्तः ।

चतुर्थी रूपाणि

दरिद्राय दरिद्राभ्याम् दरिद्रेभ्य: ।

12. ‘सायंकाले’ इति पदस्य विलोम शब्द: अनुच्छेदे अस्मिन् प्रयुक्त: तच्चित्वा लिखत

A. अपराहणकाले

B. प्रभाते

C. रात्रिकाले

D. मध्याह्न काले

ANSWER: B

SOLUTION

सायंकाले इति पदस्य विलोमशब्द: अनुच्छेदे प्रभाते इति पदं प्रयुक्तम् अस्ति ।

13. चाणक्याय कम्बला: केन दत्ता: ?

A. नृपेण

B. भृत्येन

C. चौरेण

D. मनोहरेण

ANSWER: A

SOLUTION

चाणक्याय कम्बला: नृपेण दत्ता: ।

गद्यांशानुसारं चाणक्याय कम्बला: नृपेण दत्ता: ।

14. ‘प्रवेशमकुर्वन्’ इति पदस्य कृते किं पदम् अनुच्छेदे अस्मिन् प्रयुक्त: ?

A. प्राविशन्

B. अशिक्षयन्

C. अपश्यन्

D. आदिशन्

ANSWER: A

SOLUTION

प्रवेशमकुर्वन् इति पदस्य कृते प्राविशन् इति पदं प्रयुक्तम् अस्ति ।

15. ‘सुप्त:’ इति पदे क: प्रत्यय: प्रयुक्त: ?

A. तुमुन्

B. क्त

C. घञ्

D. क्त्वा

ANSWER: B

SOLUTION

सुप्त: इति पदे क्त प्रत्यय: प्रयुक्तः अस्ति ।

क्त प्रत्यये त शेष: भवति ।