CTET DEC 2019: Paper 1 Sanskrit Bhasha Questions and Answers Paper Part 5

Get unlimited access to the best preparation resource for CTET/Paper-2 : get questions, notes, tests, video lectures and more- for all subjects of CTET/Paper-2.

1. निर्देश: अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्य: उचिततमम् उत्तरं चित्वा लिखत (1 - 9) :

पावनसलिला नर्मदा अस्माकं प्रदेशस्य जीवनदायिनी सरित् अस्ति । ऐषा एव रेवा इति नाम्नापि प्रसिद्धा । अस्याः तटे अनेकानि तीर्थस्थानानि सन्ति । प्राचीनकालादेव अस्या: तटे तपस्विनां स्थानानि सन्ति । अतः नर्मदायाः परिक्रमणं कृत्वा जना: आत्मानं धन्यं मन्यन्ते । अत्रत्यं नैसर्गिकं सौंदर्यं दर्शनीयम् ।

अनूपपुरमण्डले अमरकंटकं नाम पर्वतोअस्ति । ततः एव नर्मदा प्रादुर्भवति । तदनन्तरम् ऐषा गहनेषु अरण्येषु उत्तुङ्गपर्वतेषु भ्रमणं कुर्वती डिण्डोरीमण्डलं प्रविशति । डिण्डोरीत: सर्पाकारगत्या उच्चावचमार्गेण महाराजपुरं प्राप्नोति । तत: जाबालिपुरम् आगच्छति । श्वेतशिलाखण्डानां कृते प्रसिद्धे मेडाघाटनामके स्थाने धूमधारजलप्रपातस्वरूपं धारयति । तदवलोकनार्थं बहव: पर्यटका: अंतरराष्ट्रीयाः आगच्छन्ति ।

नर्मदा नद्यामेव बरगी-इन्दिरासागर सरदारसरोवरादय: बन्धा: निर्मिता: सन्ति। एभि: बन्धै: विद्युदुत्पादनं, भूमिसेचनं, जलपरिवहनं, अभयारण्यनिर्माणम् पर्यटनस्थलनिर्माणम् इत्यादयो विविधलाभा: भवन्ति ।

नर्मदाया: अपरं नाम अस्मिन् अनुच्छेदे प्रयुक्त: तच्चित्वा लिखत?

A. रेवा

B. तटं

C. सिंही

D. सुता

ANSWER: A

SOLUTION

नर्मदायाः अपरं नाम रेवा इति अस्ति ।

गद्यांशानुसारं नर्मदा रेवा इति नाम्ना अपि प्रसिद्धा । अर्थात् गद्यांश के अनुसार नर्मदा रेवा नाम से भी प्रसिद्ध है ।

2. अमरकंटकं नाम पर्वत: कुत्र अस्ति?

A. प्रभामण्डले

B. अनूपपुरमण्डले

C. श्रृगालस्य गुहायाम्

D. नूपुर मण्डले

ANSWER: B

SOLUTION

अनूपपुरमण्डले अमरकंटकं नाम पर्वतः अस्ति ।

गद्यांश के अनुसार अनूपपुर मंडल में अमरकंटक नाम पर्वत स्थित है।

3. डिण्डोरी-स्थानात् इत्यस्य कृते क: शब्द: अनुच्छेदे प्रयुक्त: ? तच्चित्वा लिखत

A. मेहरौलीत:

B. कावेरीत:

C. मनोहरस्यगृहत:

D. डिण्डोरीत:

ANSWER: D

SOLUTION

डिण्डोरी-स्थानात् इत्यस्य कृते डिण्डोरीत: इति शब्दःअस्ति ।

यहां डिण्डोरी के स्थान पर अनुच्छेद में इसके लिए ‘’ डिण्डोरीतः ‘’ शब्द प्रयुक्त है।

यहाँ ‘’ डिण्डोरीतः ‘’ में ‘तसिल्’ प्रत्यय है । इसका प्रयोग पञ्चमी के स्थान पर होता है।

4. तद्द्रष्टुम् इत्यस्य कृते क: शब्द: अनुच्छेदेsस्मिन् प्रयुक्त: ?

A. तस्मात् भीत:

B. आकाशात् पतितम्

C. केशवनं प्रति

D. तदवलोकनार्थम्

ANSWER: D

SOLUTION

तद्द्रष्टुम् इत्यस्य स्थाने तदवलोकनार्थम् इति शब्द: प्रयुक्तः अस्ति ।

अर्थात् ‘तद्द्रष्टुम्’ इसके स्थान पर “तदवलोकनार्थम्” यह शब्द प्रयुक्त है । जिसका अर्थ है “उसको देखने के लिए” ।

5. “उत्तुङ्गपर्वतेषु” पदे का विभक्ति: ?

A. सप्तमी

B. चतुर्थी

C. तृतीया

D. प्रथमा

ANSWER: A

SOLUTION

उत्तुङ्गपर्वतेषु पदे सप्तमी विभक्तिः अस्ति ।

‘उतुङ्गपर्वतेषु’ पद में सप्तमी विभक्ति है।

यह सप्तमी विभक्ति बहुवचन का रूप है।

Illustration 2 for CTET DEC 2019: Paper 1 Sanskrit …

6. “बन्धा:” इति पदे किं वचनम्?

A. श्रृगालवचनम्

B. एकवचनम्

C. द्विवचनम्

D. बहुवचनम्

ANSWER: D

SOLUTION

बन्धा: इति पदे बहुवचनम् अस्ति ।

बन्ध: बन्धौ बन्धा: ।

Illustration 3 for CTET DEC 2019: Paper 1 Sanskrit …

7. का जीवनदायिनी सरित् अस्ति?

A. नर्मदा

B. केलिका

C. मल्लिका

D. जाता

ANSWER: A

SOLUTION

नर्मदा जीवनदायिनी सरित् अस्ति ।

गद्यांश के अनुसार पावनसलिला नर्मदा जीवनदायिनी नदी है।

8. जना: किं कृत्वा आत्मानं धन्यं मन्यन्ते?

A. खर्जूरवृक्षमारुह्य

B. आकण्ठं भोजनं कृत्वा

C. तटे शयनं कृत्वा

D. नर्मदाया: परिक्रमणं कृत्वा

ANSWER: D

SOLUTION

जना: नर्मदायाः परिक्रमणं कृत्वा आत्मानं धन्यं मन्यन्ते ।

गद्यांशानुसारं जनाः नर्मदायाः परिक्रमणं कृत्वा आत्मानं धन्यं मन्यन्ते ।

गद्यांश के अनुसार लोग नर्मदा नदी की परिक्रमा करके स्वयं को धन्य मानते हैं ।

9. उद्भवति पदस्य समानार्थकशब्द: अनुच्छेदे अस्मिन् प्रयुक्त: । तच्चित्वा लिखत

A. प्रादुर्भवति

B. नृत्यं करोति

C. सम्मोहितं करोति

D. वेगेन धावति

ANSWER: A

SOLUTION

उद्भवति पदस्य समानार्थकशब्द: प्रादुर्भवति इति अस्ति । एतयोः अर्थः समानः अस्ति ।

यहां अनुच्छेद में ‘उद्भवति’ पद का समानार्थक शब्द ‘प्रादुर्भवति’ है। जिसका अर्थ है “उत्पन्न होता है” ।

Developed by: