CTET DEC 2019: Paper 1 Sanskrit Bhasha Questions and Answers Paper Part 6

Get unlimited access to the best preparation resource for CTET/Paper-2 : get questions, notes, tests, video lectures and more- for all subjects of CTET/Paper-2.

10. निर्देश: अधोलिखितान् श्लोकान् पठित्वा उत्तरं चित्वा लिखित (10 - 15) -

विकृतिं नैव गच्छन्ति सङ्गदोषेण साधव: ।

आवेष्टितं महासर्पै: चन्दनं न विषायते ।।१।।

मनस्येकं वचस्येकं कर्मस्येकं महात्मनाम्।

मनस्यन्यद् वचस्यन्यद् कर्मण्यन्यद् दुरात्मनाम्।।२।।

चिन्तनीया हि विपदामादावेव प्रतिक्रिया ।

न कूपखननं युक्तं प्रदीप्ते वह्निना गृहे ।।३।।

सेवितव्यो महावृक्ष: फलच्छायासमन्वित: ।

यदि दैवात्फलं नास्ति छाया केन निवार्यते ।।४।।

सर्पदुर्जनयोर्मध्ये वरं सर्पो न दुर्जनम् ।

सर्पो दशति कालेन दुर्जनस्तु पदे पदे ।।५।।

यस्मिन् देशे न सम्मानो न प्रीतिर्न च बान्धवा: ।।

न च विद्यागम: कश्चित् न तत्र दिवसो वसेत् ।।६।।

वह्निना प्रदीप्ते गृहे किं न युक्तं भवति।?

A. कूपखननम्

B. केवलं धावनम्

C. क्षौरकर्मं

D. जल-संरक्षणम्

ANSWER: A

SOLUTION

वह्निना प्रदीप्ते गृहे न कूपखननं युक्तं भवति। पद्यांशानुसारं न कूपखननं युक्तं प्रदीप्ते वह्निना गृहे। पद्यांश के अनुसार घर में आग लग जाने पर कुँआ खोदना युक्तिपूर्ण कार्य नहीं है ।

11. तव्यत् प्रत्यययुक्त: शब्द: क:

A. सेवितव्य:

B. पठनीय:

C. पर्वत:

D. सेवनीय:

ANSWER: A

SOLUTION

तव्यत् प्रत्यययुक्त: शब्द: सेवितव्य: इति अस्ति ।

तव्यत् प्रत्यये तव्य: शेष: भवति।

12. दशनं करोति इति पदस्य समानार्थक शब्द: श्लोके प्रयुक्त: तच्चित्वा लिखत

A. भक्षयति

B. दशति

C. खादनं करोति

D. खादति

ANSWER: B

SOLUTION

दशनं करोति इति पदस्य समानार्थकशब्द: श्लोके दशति इति अस्ति ।

13. यस्मिन् स्थाने इति पदस्य कृते क: शब्द: श्लोके प्रयुक्त: तच्चित्वा लिखत

A. यस्मिन् सरोवरे

B. यस्मिन् देशे

C. यस्मिन् वृक्षे

D. यस्मिन् तडागे

ANSWER: B

SOLUTION

यस्मिन् स्थाने इति पदस्य कृते पद्यांशानुसारं यस्मिन् देशे इति पदं श्लोके प्रयुक्तम् अस्ति ।

14. सङ्गदोषेण के विकृतिं न गच्छन्ति?

A. जन्तव:

B. साधव:

C. धुन्धकारिण्य:

D. मानवा:

ANSWER: B

SOLUTION

सङ्गदोषेण साधवः विकृतिं न गच्छन्ति ।

पद्यांशानुसारं विकृतिं नैव गच्छन्ति सङ्गदोषेण साधवः ।

15. केषां मनसि वचसि कर्मणि च ऐक्यं भवति?

A. महात्मनाम्

B. क्रीडकानाम्

C. फलक्रेतॄणाम्

D. दुन्दुभीनाम्

ANSWER: A

SOLUTION

महात्मनां मनसि वचसि कर्मणि च ऐक्यं भवति । पद्यांशानुसारं महात्मनाम् ऐक्यं भवति ।

Developed by: