CTET DEC 2019: Paper 1 Sanskrit Bhasha Questions and Answers Paper Part 9

Get unlimited access to the best preparation resource for CTET/Paper-2 : get questions, notes, tests, video lectures and more- for all subjects of CTET/Paper-2.

1. निर्देश: अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं चित्वा लिखत- (1 - 8)

विश्वविद्यालयस्य कश्चित् प्राध्यापक: जलविहाराय नावम् आरूढ: । नौकया जलविहारस्य तस्य प्रथम: अवसर: आसीत्। तत्र मनोरमान् दृश्यान् दृष्ट्वा स: नाविकम् अपृच्छत्- भो नाविक किं भवता कदापि गणितं पठितम्? नाविक:- न पठितम् महोदय: । प्राध्यापक: किं गणितं पठितुं विद्यालयं न गतवान्। नूनं भवत: जीवनस्य चतुर्थांश: व्यर्थ: अभवत् । किं भवता रसायनशास्त्रं भौतिकशास्त्रं वा पठितम्? नाविक: अवदत्- ईदृशं मे भाग्यं कुत: यदहं भौतिकशास्त्रं रसायनशास्त्रं वा पठेयम्। प्राध्यापक:- नूनं भवत: जीवनस्य अर्धांश: व्यर्थ: अभवत् । वद वद त्वया आंग्लभाषा तु पठिता एव । नाविक: (ग्लानिम् अनुभवन्) - महाशय! नाहं मात्रा पित्रा वा विद्यालय: प्रेषित: । तर्हि कुत: पठेयं प्राध्यापक:- तर्हि तव जीवनस्य त्रयो भागा: व्यर्था: अभवन्।

अत्रान्तरे नदे जलावर्तनं समायातम् । तदा लहरीणां वेगेन नौ: अकम्पट । तयो पश्चत एव नौका जलेन पूरिता जाता । नाविक: प्राध्यापकम् अपृच्छत् महोदय! किं भवान् तर्तुं जानाति? नौकां जलपूरितां दृष्ट्वा भीत: प्राध्यापक: अवदत्- अहं तु तर्तुं न जानामि। नाविक: अवोचत्- यदि भवान तर्तुं न जानाति तर्हि भवत: सर्वं जीवनं वृथा जातम् । अहं तु बाहुभ्यां नदं तीर्त्वा पारं गच्छामि ।

‘पठितम्’ इति पदे क: प्रत्यय: प्रयुक्त: ?

A. क्त

B. क्तवतु

C. कत्वा

D. तम्

ANSWER: A

SOLUTION

‘पठितम्’ इति पदे क्त प्रत्यय: प्रयुक्त: । क्त प्रत्ययस्य भूतकाले प्रयोगं भवति ।

2. ‘कदापि’ इति पदस्य सन्धिविच्छेद: भवति?

A. कद + आपि

B. कदा + अपि

C. कदा + पिता

D. क + दापि

ANSWER: B

SOLUTION

‘कदापि’ इति पदस्य सन्धिविच्छेद: भवति- कदा + अपि । अत्र दीर्घसन्धि: अस्ति ।

3. ‘तर्तुम्’ इति पदे क: प्रत्यय: प्रयुक्त: ?

A. तुमुन्

B. मुन्

C. ल्यप्

D. तुम्

ANSWER: A

SOLUTION

‘तर्तुम्’ इति पदे तुमुन् प्रत्यय: प्रयुक्त: । तुमुन् प्रत्यये तुम् इति शेषः भवति ।

4. नदे किं समायातम्?

A. वृक्षम्

B. जलावर्तनम्

C. पुष्पाणि

D. जलम्

ANSWER: B

SOLUTION

नदे जलावर्तनं समायातम् । गद्यांशानुसारं नदे जलावर्तनं समायातम् ।

5. नौका केन पूरिता जाता?

A. पुष्पेण

B. फलेन

C. जलेन

D. पत्रेण

ANSWER: C

SOLUTION

नौका जलेन पूरिता जाता । गद्यांशानुसारं नौका जलेन पूरिता जाता ।

6. जलविहाराय नावं क: आरूढ: ?

A. प्राध्यापिका

B. प्राचार्य:

C. मुख्याध्यापक:

D. प्राध्यापक:

ANSWER: D

SOLUTION

जलविहाराय नावं प्राध्यापक: आरूढ: । गद्यांशानुसारं जलविहाराय नावं प्राध्यापक: आरूढ: ।

7. ‘जलविहाराय’ इत्यस्मिन् पदे का विभक्ति: प्रयुक्ता?

A. द्वितीया

B. सप्तमी

C. चतुर्थी

D. प्रथमा

ANSWER: C

SOLUTION

‘जलविहाराय’ इत्यस्मिन् पदे चतुर्थी विभक्ति: प्रयुक्ता ।

रूपाणि-

जलविहाराय जलविहाराभ्याम् जलविहारेभ्यः ।

8. ‘ईदृशं भाग्यं कुत: ?’ इति वाक्यं क: अवदत्?

A. नाविक:

B. नौका

C. लहरी

D. प्राध्यापक:

ANSWER: A

SOLUTION

‘ईदृशं भाग्यं कुत: ?’ इति वाक्यं नाविक: अवदत् । गद्यांशानुसारं ‘ईदृशं भाग्यं कुत: ?’ इति वाक्यं नाविक: अवदत् ।

Developed by: