CTET July 2019 Paper 2 Language 2 Sanskrit Bhasha Questions and Answers Paper Part 1
Get top class preparation for CTET/Paper-2 right from your home: get questions, notes, tests, video lectures and more- for all subjects of CTET/Paper-2.
1. निर्देश: अधोलिखितं गद्यांशं पठित्वा उत्तराणि लिखत
साम्प्रतिकं युगं वैज्ञानिकं युगं वर्तते। अद्य मानव: तथैव नास्ति यथा शतं वर्षाणि पूर्वं आसीत्। सर्वेषां जीवने विज्ञानौपकरणानि प्रविष्टानि। नगरेषु ग्रामेषु च सर्वे जना: स्व स्व कार्येषु विज्ञानस्य साधनानां प्रयोग: कुर्वन्ति। रेलयानं दूरं गन्तुं लोकप्रियं वाहनं अस्ति। दुरस्था: शब्दा: अपि रेडियो माध्यमेन गृह्यन्ते। अधुना टेलीविजनयन्त्रं महदुपकारकं वर्तते। तेन ग्रहे स्थिता: वयं चित्राणि पश्याम: । चित्रस्थपात्राणां वचनानि श्रुणुम: । कम्प्यूटरयन्त्रं लघुकायमपि महदुपकारकं वर्तते। यद्यपि सहस्त्राधिकानां विज्ञानोपकरणानां प्रयोग: अहर्निशं भवति तथा जनानां सुविधावर्धनार्थं नवीनानि उपकरणानि आविष्क्रियन्ते। आयुर्विज्ञानस्य आविष्कारै: रोगा: दूरीक्रियन्ते। जनानां जीवने सुखं च वर्धते।
रात्रिदिवम् इति पर्यायशब्द: अनुच्छेदे प्रयुक्त: तत् लिखत
A. रात्रि:
B. उभे सन्ध्ये
C. अहर्निशम्
D. दिनम्
ANSWER: C
SOLUTION
रात्रिदिवम् इति पदस्य पर्यायशब्द: अहर्निशम् इति अस्ति।
2. आविष्कारा: क्रियन्ते इत्यस्य कृते क: शब्द: अनुच्छेदे प्रयुक्त: तत् लिखत
A. चित्राणां निर्माणम्
B. पशूनां धावनम्
C. आविष्क्रियन्ते
D. मोदकानां भक्षणम्
ANSWER: C
SOLUTION
आविष्कारा: क्रियन्ते इति शब्दस्य कृते आविष्क्रियन्ते इति शब्द: अस्ति। आविष्कारा: क्रियन्ते इति पदं विभज्य रूपं अस्ति।
3. दुःखं पदस्य विलोमशब्द: अनुच्छेदे प्रयुक्त: अस्ति तत् लिखत
A. पुष्पम्
B. फलम्
C. सुखम्
D. मधुरम्
ANSWER: C
SOLUTION
दुःखं पदस्य विलोमशब्द: सुखम् अस्ति।
4. साम्प्रतिकं युगं कीदृशं युगं वर्तते?
A. वैज्ञानिकं युगम्
B. पाषाणयुगम्
C. द्वापरयुगम्
D. जलयुगम्
ANSWER: A
SOLUTION
गद्यांशानुसारं साम्प्रतिकं युगं वैज्ञानिकयुगं वर्तते।
5. केषां जीवने विज्ञानौपकरणानि प्रविष्टानि?
A. केवलं रात्रिचराणाम्
B. केवलं पलाण्डुभक्षकाणाम्
C. सर्वेषाम्
D. केवलं जलचराणाम्
ANSWER: C
SOLUTION
गद्यांशानुसारं सर्वेषां जीवने विज्ञानौपकरणानि प्रविष्टानि।
6. प्रवेशं प्राप्तानि इत्यस्य पर्यायशब्द: अनुच्छेदे प्रयुक्त: तत् लिखत
A. हसितानि
B. पीतानि
C. निर्गतानि
D. प्रविष्टानि
ANSWER: D
SOLUTION
प्रवेशं प्राप्तानि इत्यस्य कृते पर्यायशब्द: प्रविष्टानि सन्ति।
7. दूरं गन्तुं लोकप्रियं वाहनं किम् अस्ति?
A. रेलयानम्
B. नौकायानम्
C. वृषभयानम्
D. अश्वयानम्
ANSWER: A
SOLUTION
दूरं गन्तुं लोकप्रियं वाहनं रेलयानं अस्ति।
8. “अधुना” इति पदं कीदृशं पदमस्ति?
A. कर्तृपदम्
B. क्रियापदम्
C. विशेषणपदमम्
D. अव्ययपदम्
ANSWER: D
SOLUTION
“अधुना” इति पदं अव्ययपदम् अस्ति।
अव्ययम् इत्युक्ते कदापि परिवर्तनं न भवति। अधुना इति शब्द: लिंगेषु विभक्तिसू कालेषु सर्वदा समान भवति। अतः अव्ययपदम् अस्ति।