CTET July 2019 Paper 2 Language 2 Sanskrit Bhasha Questions and Answers Paper Part 2

Get top class preparation for CTET/Paper-2 right from your home: get questions, notes, tests, video lectures and more- for all subjects of CTET/Paper-2.

9. निर्देश: अधोलिखितं गद्यांशं पठित्वा उत्तराणि लिखत

भारतस्य उत्तरस्यां दिशि हिमालयो नाम पर्वतराज: वर्तते। अस्य तुङ्गानि शिखराणि सर्वदा हिमेनाच्छादितानि भवन्ति । अयं पर्वतः पूर्वसागरात् पश्चिमसागपर्यन्तं विस्तृतः ।

अस्य मेखलासु नानाविधा: ओषधय: प्ररोहन्ति। तासु काचन रात्रौ दीपा इव प्रकाशन्ते । अत्रत्येषु वृक्षेषु शाला: देवदारव: सुतरामुपयोगिन: । अत्र व्याघ्रा ऋक्षा वृका स्वच्छन्दं विहरन्ति । अस्मिन्नेव क्षेत्रे कस्तूरीमृगा: विहरन्ति। अस्यैव नाभिमण्डलात् कस्तूरिका जायते। इयं वैद्यै: विविधिनां रोगाणां चिकित्सायै प्रयुज्यते । अत्रैव मानसं सर: मानसरोवर:) अस्ति यत्र हंसा: विहरन्ति। अस्य सरोवरस्य तटे ऋषीणाम् आश्रमा: सन्ति।

सरोवरस्य तटे केषाम् आश्रमा: सन्ति?

A. ऋषीणाम्

B. धावितनाम्

C. भल्लूकानाम्

D. जम्बुकानाम्

ANSWER: A

SOLUTION

गद्यांशानुसारं सरोवरस्य तटे ऋषीणाम् आश्रमा: सन्ति।

10. विस्तारं प्राप्त: इति पदस्य कृते क: शब्द: अनुच्छेदे प्रयुक्तः । लिखत

A. न विस्तृतः

B. बहु कोमलम्

C. विस्तृतः

D. अविस्तृत:

ANSWER: C

SOLUTION

गद्यांशे विस्तारं प्रति इति शब्दस्य कृते विस्तृतः इति शब्द: प्रयुक्त: ।

11. कस्य उत्तरस्यां दिशि पर्वतराज: वर्तते?

A. अफ्रीका देशस्य

B. ईरान देशस्य

C. भारतदेशस्य

D. चीनदेशस्य

ANSWER: C

SOLUTION

गद्यांशानुसारं भारतदेशस्य उत्तरस्यां दिशि पर्वतराज: अस्ति।

12. अस्य शिखराणि केन आच्छादितानि भवन्ति?

A. हिमेनाच्छादितानि

B. अग्निनाच्छादितानि

C. दुग्धेनाच्छादितानि

D. फलेनाच्छादितानि

ANSWER: A

SOLUTION

गद्यांशानुसारं अस्य शिखराणि हिमेनाच्छादितानि भवन्ति।

13. विहारं कुर्वन्ति इत्यस्य कृते अनुच्छेदे क: शब्द: प्रयुक्तः?

A. विहरन्ति

B. विरहिता

C. हरन्ति

D. उदाहरन्ति

ANSWER: A

SOLUTION

विहारं कुर्वन्ति अत्र विभज्य प्रयोग: अस्ति। इत्यस्य कृते विहरन्ति प्रयुक्त: अस्ति।

14. परतन्त्रम् इति पदस्य विलोमशब्द: अनुच्छेदे प्रयुक्तः । तत् लिखत

A. अर्गलासहितम्

B. जीमूतवाहन:

C. परातन्त्रम्

D. स्वच्छन्दम्

ANSWER: D

SOLUTION

अनुच्छेदे परतन्त्रम् इति पदस्य विलोमशब्द: स्वच्छन्दम् इति अस्ति।

15. उत्पन्ना भवति इत्यस्य पर्यायशब्द: अनुच्छेदे क: ?

A. जायते

B. क्रोध:

C. म्रियते

D. स्वपिति

ANSWER: A

SOLUTION

उत्पन्ना भवति इत्यस्य पर्यायशब्द: अनुच्छेदे जायते इति अस्ति।

Developed by: